सांस्कृतिकपुनर्जागरणे संस्कृतस्य भूमिका                  

सांस्कृतिकपुनर्जागरणे संस्कृतस्य भूमिका                  

prof Balram Shukla

(आचार्यः गिरीश्वरमिश्रः विश्वस्तरे भारतीयमनोविज्ञानस्य परमः प्रस्तावकः अस्ति। अस्मिन् लेखे असौ भारतीयानां कृते संस्कृतस्य माहात्म्यं ख्यापयन् 

संस्कृतं प्राथमिकविषयत्वेन समर्थयति। )


    भारतीयप्रायद्वीपे संस्कृतिविकासस्य कथा तथा व्यापिनी गहना चास्ति यत् तस्याः प्रतिस्पर्धि विश्वे अन्यत् किमपि उदाहरणं नैव प्राप्यते, न च तादृशी जिजीविषापि क्वचित् दृश्यते। नानाविधान् झंझावातान् सोढ्वा अपि सहस्रवर्षाणि अतिक्रम्य यदि एषा जीवति, तत्र एतस्या आन्तरिकप्राणवत्ता एव कारणम्। एषा विकटसांस्कृतिकयात्रा यत् पाथेयम् अवलम्ब्य निर्वर्तिता सा नूनम् संस्कृतभाषा एव अस्ति। संस्कृतभाषायाः विपुलस्य विविधतापूर्णसाहित्यस्य गौरवस्य सुरक्षायाः आवश्यकता प्राय: विस्मर्यते। एतस्य कारणम् अस्ति अस्माकं अज्ञानता भ्रमः च; अत्र च कारणं अस्माकं निजया एव शिक्षया प्रतिपाद्यमानः संस्कृतविषये अपरिचयः। कुपरिचयात् भ्रमः अपि सत्यत्वेन परिणमति।

आंग्लैः यः पाठ्यक्रमः, या च पद्धतिः संस्थापिता तेषु भारतं, भारतीयता अथ च अत्रत्या स्थानीयज्ञानपरम्परा अवधानपूर्वकं बहिष्कृताः। अत्रत्या परम्परा अवैज्ञानिकी परलोकवादिनी अतः अनावश्यकी इति उद्घोष्य हठात् एषा मुख्यधारायाः दूरे गलहस्तिता। सा केवलं संग्रहालयार्थं अनुष्ठानार्थम् एव आरक्षिता। सा 'देव-वाणी' मनुष्येभ्यः दूरीभूता किञ्चित् विचित्रवस्तु इति साधिता। एष सर्वः दुष्प्रचारः सामान्यमनुष्याणां मनःसु संस्कृतविषये मिथ्याप्रवादाय पर्याप्तम् असिध्यत्। 

अस्माभिः संस्कृतस्य महत्त्वं केवलम् संस्काराः, पूजनम्, उद्घाटनं, समापनम् इत्यादिभ्यः अनौपचारिकेभ्यः अवसरेभ्यः अस्ति इति दुरवगतम्। सदैव सा सक्रियजीवनस्य देहलीतः दूरे एव स्थापिता। अस्मासु तावान् अपि अवकाशः नावर्तत येन एष संस्कृतात्मकः अमूल्यः दायः सम्यक् अवगम्येत। शिक्षा, कुटुम्बं, राजनयः, व्यवसायः, वाणिज्यम्, स्वास्थ्यम् , प्रकृतिः, जीवनम्, जगत् ईश्वरः च, एतेषां सर्वेषां विषये समुपलब्धं अस्मद्देशीयं चिन्तनं सर्वं व्यर्थमेवातिष्ठत्। वयं वेद–वेदांग–पुराण–स्मृति–साहित्य–व्याकरणायुर्वेद–दर्शन–नाट्यशास्त्र–कामशास्त्रार्थशास्त्र–योगशास्त्र–ज्योतिष–रामायण–महाभारत–श्रीमद्भागवतादीनाम् शास्त्राणां नामानि तु शृणुमः परन्तु श्रद्धां विना तान्यधिकृत्य निजमनःसु सन्देहं भ्रमं वा धारयामः। एतदेव कारणं यत् एतस्य वाङ्मयस्य अध्ययनप्रक्रिया उपयोगप्रक्रिया च बाधिता विशृंखलिता च जायेते। अपरतः पश्चाद्वर्तीनि पाश्चात्त्यजगतः आधुनिकज्ञानविज्ञानानि प्रति सहजश्रद्धया अभिभूतैः अस्माभिः तेषां लाभान् अविचार्य अपरीक्ष्य एव अवैकल्येन स्वीकृतानि। अनेन सांस्कृतिकेन अपस्कन्दनेन अस्माकं दृष्टिकोणः विश्वदृष्टिः च परिवर्तिता। अद्यत्वे अतिभौतिकताया अत्युपभोक्तृवादस्य च दुष्परिणामा अस्माकं सर्वेषां प्रत्यक्षम् एवा अस्ति।

भारते शिक्षणादिक्षेत्रे समाजीकरणस्य या धारा प्रावहत् तस्याम् अस्माकं चिन्तनं दौर्भाग्येण परमुखापेक्षि संजातम्, अस्मभ्यं ज्ञानस्य च सन्दर्भबिन्दुः पाश्चात्त्यचिन्तनम् एव अजायत। ज्ञानार्थं सम्पूर्णं परनिर्भरता संस्थापिता संसाधिता च अभूत्। अस्माभिः पाश्चात्त्यानामेव विचारसरणिरनुगता। अस्माकं श्रमः, कालः, संसाधनानि च बहूनि तेषां निरुद्देश्ये अनुकरणे मोघीकृतानि। ज्ञानस्य राजनीतिम् अजानन्तः तस्यामेव अनुबद्धा वयं ज्ञानस्य सर्वेभ्यः नवोन्मेषेभ्यः वञ्चिता एव स्थिताः। पाश्चात्त्यानाम् अनुधावने व्यग्राणां अस्माकं पार्श्वे मौलिकतायै सर्जनायै वा अवकाश एव न भवति। अस्यां स्थितौ यः शोधोऽपि जायते स पाश्चात्त्यानामेव हिताय कल्पते न तु आस्माकीनानाम्। एतादृशः अतिरिक्तेन व्यर्थेन मानसभारेण सहकृतः शोधप्रयत्नः मोघ एव, इति सुप्रकटम्। 


उपरितनवस्तूनि मनसि निधाय चिन्त्यते चेत् संस्कृतभाषा तस्या साहित्यमेव तादृशं अद्वितीयं स्रोतः प्रतीयते यस्य संभावनासु विचारः करणीयः भवति अद्यत्वे। निश्चप्रचमिदं यत् संस्कृतं भारतस्य अनेकासां भाषाणां जननी अस्ति, अनेकेषु च स्तरेषु तस्या उपस्थितिः अस्माकं व्यवहारस्य चेतने अचेतने च स्तरे नितराम् अस्ति एव। भाषायाः समाजस्य व्यवहारस्य च सम्बन्धाः अतीव महत्त्वाधायिनः सन्ति। अत एव एतानि आधारीकृत्य समाजस्य व्यक्तेः च विचाराणां व्यवहाराणां च कोटीः तेषां अंतःसंबंधान् च अन्वेष्टुं प्रयत्नो विधेयः एव अस्माभिः। एतेन सहैव शास्त्रीयचिन्तनानि अवगन्तुं अवगमनोत्तरम् तेषाम् उपयोगः च अस्माकं विभिन्नक्षेत्रेषु व्यावहारिकाय समाधानाय उपयोगी सेत्स्यति। अद्यत्वे, योगस्य आयुर्वेदस्य च विषये औत्सुक्यं कामं परिवर्धितम्, परन्तु संस्कृतस्य अन्यानि क्षेत्राणि अधुनापि उपेक्षितानि एव तिष्ठन्ति। संस्कृतज्ञानेन ते भ्रमा अपि अपसारयितुं शक्यन्ते ये सम्प्रति अनेकेषु क्षेत्रेषु प्रसरन्तितराम्, यथा, जनाः आसनमात्रं योगं जानन्ति। 

 ज्ञानस्य भाषारूपेण यदि आंग्लभाषा पाठ्यते तथा संस्कृताय अपि अयम् अवसरः दातव्यः एव। अनेन उपक्रमेण ज्ञानार्जनस्य अवसराः प्रगुणीभविष्यन्ति, संस्कृत्या अपरिचयः तज्जः भ्रमोऽपि अपसरिष्यति। भाषादृष्ट्या सहजत्वेन नियमबद्धता–कारणात् च संस्कृतस्य शिक्षणं सरलम् अस्ति। अन्यासाम् आधुनिकभाषाणाम् शिक्षणेऽपि संस्कृतपरिचयेन लाभः भविष्यति एव। संस्कृतस्य अवगमनं सम्भाषणं च भारतीयसंस्कृतेः आत्मसात्करणाय, तस्याः समृद्धये च आनिवार्यम्, एष खलु आत्मबोधः इव एव अस्ति अस्माकम्। अतः संस्कृतस्य स्थानं प्राथमिकशिक्षायां भवेत् एव।

Report Page